Sarga 67: Finding the King of Vultures
गृध्रराजदर्शनम्
gṛdhrarājadarśanam — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् । सारग्राही महासारं प्रतिजग्राह राघवः ।।3.67.1।।
Meaning
सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः । अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ।।3.67.2।।
Meaning
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण । केनोपायेन पश्येयं सीतामिति विचिन्तय ।।3.67.3।।
Meaning
तं तथा परितापार्तं लक्ष्मणो राममब्रवीत् । इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ।।3.67.4।।
Meaning
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् । सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ।।3.67.5।।
Meaning
गुहाश्च विविधा घोरा नानामृगगणाकुलाः । आवासाः किन्नराणां च गन्धर्वभवनानि च ।।3.67.6।।
Meaning
तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि । त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ ।।3.67.7।।
Meaning
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः । इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः ।।3.67.8।।
Meaning
क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम् । ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ।।3.67.9।।
Meaning
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् । तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ।।3.67.10।।
Meaning