Sarga 38: The Might of Rāma's Weapons
रामास्त्रमहिमा
rāmāstramahimā — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम् । बलं नागसहस्रस्य धारयन् पर्वतोपमः ।।3.38.1।।
Meaning
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । भयं लोकस्य जनयन् किरीटी परिघायुधः ।।3.38.2।।
Meaning
व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन् । विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः ।।3.38.3।।
Meaning
स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत् । अद्य रक्षतु मां रामः पर्वकाले समाहितः ।।3.38.4।।
Meaning
मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर । इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा ।।3.38.5।।
Meaning
प्रत्युवाच महाभागं विश्वामित्रं महामुनिम् । बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः ।।3.38.6।।
Meaning
कामं तु मम यत्सैन्यं मया सह गमिष्यति । बलेन चतुरङ्गेण स्वयमेत्य निशाचरान् ।।3.38.7।।
Meaning
वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितम् । इत्येवमुक्तः स मुनी राजानमिदमब्रवीत् ।।3.38.8।।
Meaning
रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः । देवतानामपि भवान् समरेष्वभिपालकः ।।3.38.9।।
Meaning
आसीत्तव कृतं कर्म त्रिलोके विदितं नॄप । काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप ।।3.38.10।।
Meaning