Sarga 75: Sight of Pampā
पम्पादर्शनम्
pampādarśanam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
दिवं तु तस्यां यातायां शबर्यां स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ।।3.75.1।।
Meaning
स चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत् ।।3.75.2।।
Meaning
दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलो नानाविहगसेवितः ।।3.75.3।।
Meaning
सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण । उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः ।।3.75.4।।
Meaning
प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम् । तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति ।।3.75.5।।
Meaning
हृदये हि नरव्याघ्र शुभमाविर्भविष्यति । तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ।।3.75.6।।
Meaning
ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते । यस्मिन् वसति धर्मात्मा सुग्रीवोऽंशुमतः सुतः ।।3.75.7।।
Meaning
नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरैः । अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् ।।3.75.8।।
Meaning
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् । एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत् ।।3.75.9।।
Meaning
गच्छावस्त्वरितं तत्र ममापि त्वरते मनः । आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः ।।3.75.10।।
Meaning