Sarga 46: Rāvaṇa Received as a Mendicant
रावणभिक्षुसत्कारः
rāvaṇabhikṣusatkāraḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
तथा परुषमुक्तस्तु कुपितो राघवानुजः । स विकाङ्क्षन्भृशं रामं प्रतस्थे न चिरादिव ।।3.46.1।।
Meaning
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेहीं परिव्राजकरूपधृत् ।।3.46.2।।
Meaning
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ।।3.46.3।।
Meaning
परिव्राजकरूपेण वैदेहीं समुपागमत् । तामाससादातिबलो भ्रातृभ्यां रहितां वने ।।3.46.4।।
Meaning
रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः । तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम् ।।3.46.5।।
Meaning
रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः । तमुग्रतेजः कर्माणं जनस्थानरुहा द्रुमाः ।।3.46.6।।
Meaning
समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ।।3.46.7।।
Meaning
स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी । रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे ।।3.46.8।।
Meaning
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ।।3.46.9।।
Meaning
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । स पापो भव्यरूपेण तृणैः कूप इवावृतः ।।3.46.10।।
Meaning