Sarga 64: Rāma's Wrath
रामक्रोधः
rāmakrodhaḥ — word-by-word gloss for all 76 shlokas.
Jump to a shloka · 76 in this sarga
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ।।3.64.1।।
Meaning
अपि गोदावरीं सीता पद्मान्यानयितुं गता । एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ।।3.64.2।।
Meaning
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ।।3.64.3।।
Meaning
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ।।3.64.4।।
Meaning
न ह्यहं वेद तं देशं यत्र सा जनकात्मजा । लक्ष्मणस्य वचः श्रुत्वा दीनः सन्तापमोहितः ।।3.64.5।।
Meaning
रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ।।3.64.6।।
Meaning
भूतानि राक्षसेन्द्रेण वधार्हेण हृतामिति । न तां शशंसू रामाय तथा गोदावरी नदी ।।3.64.7।।
Meaning
ततः प्रचोदिता भूतैः शंसास्मत्तां प्रियामिति । न तु साभ्यवदत्सीतां पृष्टा रामेण शोचता ।।3.64.8।।
Meaning
रावणस्य च तद्रूपं कर्माणि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ।।3.64.9।।
Meaning
निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ।।3.64.10।।
Meaning