Sarga 74: Śabarī Attains Heaven

शबरीस्वर्गप्राप्तिः

śabarīsvargaprāptiḥ — word-by-word gloss for all 35 shlokas.

Page 1 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 74.1Word-by-word available

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने । प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ।।3.74.1।।

Meaning

Shloka 74.2Word-by-word available

तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलान् द्रुमान् । वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ ।।3.74.2।।

Meaning

Shloka 74.3Word-by-word available

कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ।।3.74.3।।

Meaning

Shloka 74.4Word-by-word available

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ।।3.74.4।।

Meaning

Shloka 74.5Word-by-word available

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् । सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ।।3.74.5।।

Meaning

Shloka 74.6Word-by-word available

तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः । रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ।।3.74.6।।

Meaning

Shloka 74.7Word-by-word available

पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि । तामुवाच ततो रामः श्रमणीं संशितव्रताम् ।।3.74.7।।

Meaning

Shloka 74.8Word-by-word available

कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः । कच्चित्ते नियतः क्रोध आहारश्च तपोधने ।।3.74.8।।

Meaning

Shloka 74.9Word-by-word available

कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ।।3.74.9।।

Meaning

Shloka 74.10Word-by-word available

रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता । शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ।।3.74.10।।

Meaning