Sarga 31: Rāvaṇa Learns of Khara's Fate
रावणखरवृत्तोपलम्भः
rāvaṇakharavṛttopalambhaḥ — word-by-word gloss for all 50 shlokas.
Jump to a shloka · 50 in this sarga
त्वरमणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ।।3.31.1।।
Meaning
जनस्थानस्थिता राजन् राक्षसा बहवो हताः । खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः ।।3.31.2।।
Meaning
एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः । अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ।।3.31.3।।
Meaning
केन रम्यां जनस्थानं हतं मम परासुना । को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ।।3.31.4।।
Meaning
न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ।।3.31.5।।
Meaning
कालस्य चाप्यहं कालो दहेयमपि पावकम् । मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ।।3.31.6।।
Meaning
दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ । वातस्य तरसा वेगं निहन्तुमहमुत्सहे ।।3.31.7।।
Meaning
तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम् ।।3.31.8।।
Meaning
दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः । स विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः ।।3.31.9।।
Meaning
पुत्रो दशरथस्यास्ति सिंहसंहननो युवा । रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ।।3.31.10।।
Meaning