Sarga 60: Rāma's Madness of Grief
रामोन्मादः
rāmonmādaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
भृशमाव्रजमानस्य तस्याधोवामलोचनम् । प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत ।।3.60.1।।
Meaning
उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं नु सीताया इति वै व्याजहार च ।।3.60.2।।
Meaning
त्वरमाणो जगामाथ सीतादर्शनलालसः । शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ।।3.60.3।।
Meaning
उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः । तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः ।।3.60.4।।
Meaning
ददर्श पर्णशालां च रहितां सीतया तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ।।3.60.5।।
Meaning
रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम् । श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम् ।।3.60.6।।
Meaning
विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्यं निजस्थानं विललाप पुनः पुनः ।।3.60.7।।
Meaning
हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ।।3.60.8।।
Meaning
गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता ।।3.60.9।।
Meaning
यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते ।।3.60.10।।
Meaning