Sarga 52: Sītā Cries Out
सीताविक्रोशः
sītāvikrośaḥ — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ।।3.52.1।।
Meaning
सा तु ताराधिपमुखी रावणेन समीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ।।3.52.2।।
Meaning
आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा । विललाप सुदुःखार्ता सीता शशिनिभानना ।।3.52.3।।
Meaning
निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम् । अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ।।3.52.4।।
Meaning
नूनं राम न जानासि महद्व्यसनमात्मनः । धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः ।।3.52.5।।
Meaning
अयं हि पापचारेण मां त्रातुमभिसङ्गतः । शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः ।।3.52.6।।
Meaning
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना । सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ।।3.52.7।।
Meaning
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ।।3.52.8।।
Meaning
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ।।3.52.9।।
Meaning
क्रोशन्तीं राम रामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसन्निभः ।।3.52.10।।
Meaning