Sarga 9: Sītā Speaks of Dharma
सीताधर्मावेदनम्
sītādharmāvedanam — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ।।3.9.1।।
Meaning
अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान् । निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ।।3.9.2।।
Meaning
त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ ।।3.9.3।।
Meaning
परदाराभिगमनं विना वैरं च रौद्रता । मिथ्या वाक्यं न ते भूतं न भविष्यति राघव ।।3.9.4।।
Meaning
कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम् । तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ।।3.9.5।।
Meaning
मनस्यपि तथा राम न चैतद्विद्यते क्वचित् । स्वदारनिरतस्त्वं च नित्यमेव नृपात्मज ।।3.9.6।।
Meaning
धर्मिष्ठः सत्यसन्धश्च पितुर्निर्देशकारकः । सत्यसन्ध महाभाग श्रीमल्लक्ष्मणपूर्वज ।।3.9.7।।
Meaning
त्वयि सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् । तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः ।।3.9.8।।
Meaning
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन । तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम् ।।3.9.9।।
Meaning
निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम् । प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ।।3.9.10।।
Meaning