Sarga 10: Rāma Defends His Vow
रक्षोवधसमर्थनम्
rakṣovadhasamarthanam — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ।।3.10.1।।
Meaning
हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः । कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ।।3.10.2।।
Meaning
किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः । क्षत्रियैर्धार्यते चापो नार्त शब्दो भवेदिति ।।3.10.3।।
Meaning
मां सीते स्वयमागम्य शरण्याः शरणं गताः । ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।।3.10.4।।
Meaning
वसन्तो धर्मनिरता वने मूलफलाशनाः । न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ।।3.10.5।।
Meaning
काले काले च निरता नियमैर्विविधैर्वने । भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः ।।3.10.6।।
Meaning
ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः ।।3.10.7।।
Meaning
मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम् । कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ।।3.10.8।।
Meaning
प्रसीदन्तु भवन्तो मे ह्रीरेषा तु ममातुला । यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः ।।3.10.9।।
Meaning
किं करोमीति च मया व्याहृतं द्विजसन्निधौ । सर्वैरेतैः समागम्य वागियं समुदाहृता ।।3.10.10।।
Meaning