Sarga 34: Śūrpaṇakhā Urges Sītā's Abduction
सीताहरणोपदेशः
sītāharaṇopadeśaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
ततः शूर्पणखां कृद्धां ब्रुवन्तीं परुषं वचः । अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ।।3.34.1।।
Meaning
कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः । किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ।।3.34.2।।
Meaning
आयुधं किं च रामस्य निहता येन राक्षसाः । खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ।।3.34.3।।
Meaning
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता । ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ।।3.34.4।।
Meaning
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः । कन्दर्पसमरूपश्च रामो दशरथात्मजः ।।3.34.5।।
Meaning
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् । दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ।।3.34.6।।
Meaning
नाददानं शरान् घोरान् न मुञ्चन्तं शिलीमुखान् । न कार्मुकं विकर्षन्तं रामं पश्यामि सम्युगे ।।3.34.7।।
Meaning
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः । इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ।।3.34.8।।
Meaning
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश । निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ।।3.34.9।।
Meaning
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः । ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ।।3.34.10।।
Meaning