Sarga 62: Rāghava's Lament
राघवविलापः
rāghavavilāpaḥ — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
सीतामपश्यन् धर्मात्मा कामोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः ।।3.62.1।।
Meaning
पश्यन्निव स तां सीतामपश्यन्मदनार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम् ।।3.62.2।।
Meaning
त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी ।।3.62.3।।
Meaning
कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम् ।।3.62.4।।
Meaning
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै ।।3.62.5।।
Meaning
परिहासेन किं सीते परिश्रान्तस्य मे प्रिये । अयं स परिहासोऽपि साधु देवि न रोचते ।।3.62.6।।
Meaning
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये ।।3.62.7।।
Meaning
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा ।।3.62.8।।
Meaning
न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण । एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ।।3.62.9।।
Meaning
शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः । हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि ।।3.62.10।।
Meaning