Sarga 32: Śūrpaṇakhā Goes to Rāvaṇa
शूर्पणखोद्यमः
śūrpaṇakhodyamaḥ — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश । हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ।।3.32.1।।
Meaning
दूषणं च खरं चैव हतं त्रिशिरसा सह । दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ।।3.32.2।।
Meaning
सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् । जगाम परमोद्विग्ना लङ्कां रावणपालिताम् ।।3.32.3।।
Meaning
सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् । उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ।।3.32.4।।
Meaning
आसीनं सूर्यसङ्काशे काञ्चने परमासने । रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम् ।।3.32.5।।
Meaning
देवगन्धर्वभूतानामृषीणां च महात्मनाम् । अजेयं समरे शूरं व्यात्ताननमिवान्तकम् ।।3.32.6।।
Meaning
देवासुरविमर्देषु वज्राशनिकृतव्रणम् । ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम् ।।3.32.7।।
Meaning
विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् । विशालवक्षसं वीरं राजलक्षणशोभितम् ।।3.32.8।।
Meaning
स्निग्धवैडूर्यसङ्काशं तप्तकाञ्चनकुण्डलम् । सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ।।3.32.9।।
Meaning
विष्णुचक्रनिपातैश्च शतशो देवसम्युगे । अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ।।3.32.10।।
Meaning