Sarga 59: Lakṣmaṇa Blamed for Coming
लक्ष्मणागमनविगर्हणम्
lakṣmaṇāgamanavigarhaṇam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखार्दितं पुनः ।।3.59.1।।
Meaning
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासाद्वने विरहिता मया ।।3.59.2।।
Meaning
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण । शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः ।।3.59.3।।
Meaning
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ।।3.59.4।।
Meaning
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ।।3.59.5।।
Meaning
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः । प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ।।3.59.6।।
Meaning
आर्येणेव पराक्रुष्टं हा सीते लक्ष्मणेति च । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ।।3.59.7।।
Meaning
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । गच्छ गच्छेति मामाह रुदन्ती भयविह्वला ।।3.59.8।।
Meaning
प्रचोद्यमानेन मया गच्छेति बहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम् ।।3.59.9।।
Meaning
न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम् ।।3.59.10।।
Meaning