Sarga 44: Mārīca's Deception
मारीचवञ्चना
mārīcavañcanā — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः । बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ।।3.44.1।।
Meaning
ततस्त्र्यवनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ।।3.44.2।।
Meaning
तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात् पुनः सन्दर्शनेऽभवत् ।।3.44.3।।
Meaning
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः । तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः ।।3.44.4।।
Meaning
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने । अतिवृत्तमिषोः पाताल्लोभयानं कदाचन ।।3.44.5।।
Meaning
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ।।3.44.6।।
Meaning
चिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ।।3.44.7।।
Meaning
दर्शनादर्शनादेवं सोऽपाकर्षत राघवम् । सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः ।।3.44.8।।
Meaning
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले ।।3.44.9।।
Meaning
स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत ।।3.44.10।।
Meaning