Sarga 30: Khara Destroyed
खरसंहारः
kharasaṃhāraḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः । स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ।।3.30.1।।
Meaning
एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ।।3.30.2।।
Meaning
एषा बाणविनिर्भिन्ना गदा भूमितलं गता । अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ।।3.30.3।।
Meaning
यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् । राक्षसानां करोमीति मिथ्या तदपि ते वचः ।।3.30.4।।
Meaning
नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।।3.30.5।।
Meaning
अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम् । विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ।।3.30.6।।
Meaning
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः । स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव ।।3.30.7।।
Meaning
प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ।।3.30.8।।
Meaning
जनस्थाने हतस्थाने तव राक्षस मच्छरैः । निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ।।3.30.9।।
Meaning
अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पार्द्रवदना दीना भयादन्यभयावहाः ।।3.30.10।।
Meaning