Sarga 17: Śūrpaṇakhā Declares Her Desire
शूर्पणखाभावाविष्करणम्
śūrpaṇakhābhāvāviṣkaraṇam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ।।3.17.1।।
Meaning
आश्रमं तमुपागम्य राघवः सहलक्ष्मणः । कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत् ।।3.17.2।।
Meaning
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ।।3.17.3।।
Meaning
स रामः पर्णशालायामासीनः सह सीतया । विरराज महाबाहुश्चित्रया चन्द्रमा इव ।।3.17.4।।
Meaning
तथासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया ।।3.17.5।।
Meaning
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम् ।।3.17.6।।
Meaning
सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् । आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ।।3.17.7।।
Meaning
गजविक्रान्तगमनं जटामण्डलधारिणम् । सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ।।3.17.8।।
Meaning
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् । बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ।।3.17.9।।
Meaning
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ।।3.17.10।।
Meaning