Sarga 22: Khara Arms for Battle
खरसंनाहः
kharasaṃnāhaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः ।।3.22.1।।
Meaning
तवावमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोत्थितम् ।।3.22.2।।
Meaning
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति ।।3.22.3।।
Meaning
बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ।।3.22.4।।
Meaning
परश्वधहतस्याद्य मन्दप्राणस्य सम्युगे । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ।।3.22.5।।
Meaning
सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम् ।।3.22.6।।
Meaning
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद्दूषणं नाम खरः सेनापतिं तदा ।।3.22.7।।
Meaning
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ।।3.22.8।।
Meaning
नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् । लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ।।3.22.9।।
Meaning
तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ।।3.22.10।।
Meaning