Sarga 7: Sutīkṣṇa's Hermitage

सुतीक्ष्णाश्रमः

sutīkṣṇāśramaḥ — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 1 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 7.1Word-by-word available

रामस्तु सहितो भ्रात्रा सीतया च परन्तपः । सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ।।3.7.1।।

Meaning

Shloka 7.2Word-by-word available

स गत्वादूरमध्वानं नदीस्तीर्त्वा बहूदकाः । ददर्श विपुलं शैलं महामेघमिवोन्नतम् ।।3.7.2।।

Meaning

Shloka 7.3Word-by-word available

ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः । काननं तौ विविशतुः सीतया सह राघवौ ।।3.7.3।।

Meaning

Shloka 7.4Word-by-word available

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् । ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ।।3.7.4।।

Meaning

Shloka 7.5Word-by-word available

तत्र तापसमासीनं मलपङ्कजटाधरम् । रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ।।3.7.5।।

Meaning

Shloka 7.6Word-by-word available

रामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः । त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम ।।3.7.6।।

Meaning

Shloka 7.7Word-by-word available

स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ।।3.7.7।।

Meaning

Shloka 7.8Word-by-word available

स्वागतं खलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ।।3.7.8।।

Meaning

Shloka 7.9Word-by-word available

प्रतीक्षमाणस्त्वामेव नारोहेऽहं माहायशः । देवलोकमितो वीर देहं त्यक्त्वा महीतले ।।3.7.9।।

Meaning

Shloka 7.10Word-by-word available

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः । इहोपयातः काकुत्स्थ देवराजः शतक्रतुः ।।3.7.10।।

Meaning