Sarga 37: Unwelcome but Wholesome Words
अप्रियपथ्यवचनम्
apriyapathyavacanam — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ।।3.37.1।।
Meaning
सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।।3.37.2।।
Meaning
न नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम् । अयुक्तचारश्चपलो महेन्द्रवरुणोपमम् ।।3.37.3।।
Meaning
अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् । अपि रामो न सङ्क्रुद्धः कुर्याल्लोकमराक्षसम् ।।3.37.4।।
Meaning
अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा । अपि सीतानिमित्तं च न भवेद्व्यसनं मम ।।3.37.5।।
Meaning
अपि त्वमीश्वरं प्राप्य कामवृत्तं निरङ्कुशम् । न विनश्येत् पुरी लङ्का त्वया सह सराक्षसा ।।3.37.6।।
Meaning
त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः । आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः ।।3.37.7।।
Meaning
न च पित्रा परित्यक्तो नामर्यादः कथञ्चन । न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः ।।3.37.8।।
Meaning
न च धर्मगुणैर्हीनः कौसल्यानन्दवर्धनः । न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ।।3.37.9।।
Meaning
वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् । करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ।।3.37.10।।
Meaning