Sarga 69: Seized by Kabandha

कबन्धग्राहः

kabandhagrāhaḥ — word-by-word gloss for all 51 shlokas.

Page 1 of 651 shlokas in this sarga (verified max-across-sources)
Shloka 69.1Word-by-word available

कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ । अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ।।3.69.1।।

Meaning

Shloka 69.2Word-by-word available

तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिजग्मतुः ।।3.69.2।।

Meaning

Shloka 69.3Word-by-word available

गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ।।3.69.3।।

Meaning

Shloka 69.4Word-by-word available

व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ।।3.69.4।।

Meaning

Shloka 69.5Word-by-word available

ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ । क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ।।3.69.5।।

Meaning

Shloka 69.6Word-by-word available

नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः । नानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ।।3.69.6।।

Meaning

Shloka 69.7Word-by-word available

दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः । तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ।।3.69.7।।

Meaning

Shloka 69.8Word-by-word available

ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा । क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ।।3.69.8।।

Meaning

Shloka 69.9Word-by-word available

दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् । नानासत्त्वसमाकीर्णं सर्वं गहनपादपम् ।।3.69.9।।

Meaning

Shloka 69.10Word-by-word available

ददृशाते तु तौ तत्र दरीं दशरथात्मजौ । पातालसमगम्भीरां तमसा नित्यसंवृताम् ।।3.69.10।।

Meaning