Sarga 35: Rāvaṇa Returns to Mārīca
मारीचाश्रमपुनर्गमनम्
mārīcāśramapunargamanam — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः ।।3.35.1।।
Meaning
तत्कार्यमनुगम्याथ यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम् ।।3.35.2।।
Meaning
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालामुपागमत् ।।3.35.3।।
Meaning
यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः । सूतं सञ्चोदयामास रथः सम्योज्यतामिति ।।3.35.4।।
Meaning
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं सम्योजयामास तस्याभिमतमुत्तमम् ।।3.35.5।।
Meaning
काञ्चनं रथमास्थाय कामगं रत्नभूषितम् । पिशाचवदनैर्युक्तं खरैः कनकभूषणैः ।।3.35.6।।
Meaning
मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम् ।।3.35.7।।
Meaning
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः । स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः ।।3.35.8।।
Meaning
विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट् ।।3.35.9।।
Meaning
कामगं रथमास्थाय शुशुभे राक्षसेश्वरः । विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे ।।3.35.10।।
Meaning