Sarga 27: Triśiras Slain
त्रिशिरोवधः
triśirovadhaḥ — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत् ।।3.27.1।।
Meaning
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् । पश्य रामं महाबाहुं सम्युगे विनिपातितम् ।।3.27.2।।
Meaning
प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ।।3.27.3।।
Meaning
अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव ।।3.27.4।।
Meaning
प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं सम्युगायोपयास्यसि ।।3.27.5।।
Meaning
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ।।3.27.6।।
Meaning
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ।।3.27.7।।
Meaning
शरधारासमूहान् स महामेघ इवोत्सृजम् । व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः ।।3.27.8।।
Meaning
आगच्छन्त त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान् ।।3.27.9।।
Meaning
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान् । बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ।।3.27.10।।
Meaning