Sarga 40: Mārīca Forced to Take the Deer's Form
मायामृगरूपपरिग्रहनिर्बन्धः
māyāmṛgarūpaparigrahanirbandhaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ।।3.40.1।।
Meaning
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः ।।3.40.2।।
Meaning
यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे ।।3.40.3।।
Meaning
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य सम्युगे । पापशीलस्य मूर्खस्य मानुषस्य विशेषतः ।।3.40.4।।
Meaning
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा । स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ।।3.40.5।।
Meaning
अवश्यं तु मया तस्य सम्युगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ ।।3.40.6।।
Meaning
एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ।।3.40.7।।
Meaning
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि । अपायं वाऽप्युपायं वा कार्यस्यास्य विनिश्चये ।।3.40.8।।
Meaning
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना राज्ञे य इच्छेद्भूतिमात्मनः ।।3.40.9।।
Meaning
वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम् । उपचारेण युक्तं च वक्तव्यो वसुधाधिपः ।।3.40.10।।
Meaning