Sarga 41: Rāvaṇa Censured
रावणनिन्दा
rāvaṇanindā — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः । अब्रवीत् परुषं वाक्यं मारीचो राक्षसाधिपम् ।।3.41.1।।
Meaning
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ।।3.41.2।।
Meaning
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ।।3.41.3।।
Meaning
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ।।3.41.4।।
Meaning
केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ।।3.41.5।।
Meaning
वध्याः खलु न हन्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ।।3.41.6।।
Meaning
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे ।।3.41.7।।
Meaning
धर्ममर्थं च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ।।3.41.8।।
Meaning
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ।।3.41.9।।
Meaning
राजमूलो हि धर्मश्च जयश्च जयतां वर । तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ।।3.41.10।।
Meaning