Sarga 19: Khara's Anger

खरक्रोधः

kharakrodhaḥ — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 1 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 19.1Word-by-word available

तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ।।3.19.1।।

Meaning

Shloka 19.2Word-by-word available

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।।3.19.2।।

Meaning

Shloka 19.3Word-by-word available

कः कृष्णसर्पमासीनमाशीविषमनागसम् । तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ।।3.19.3।।

Meaning

Shloka 19.4Word-by-word available

कः कालपाशमासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ।।3.19.4।।

Meaning

Shloka 19.5Word-by-word available

बलविक्रमसम्पन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमा गता ।।3.19.5।।

Meaning

Shloka 19.6Word-by-word available

देवगन्धर्वभूतानामृषीणां च महात्मनाम् । कोऽयमेवं विरूपां त्वां महावीर्यश्चकार ह ।।3.19.6।।

Meaning

Shloka 19.7Word-by-word available

न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ।।3.19.7।।

Meaning

Shloka 19.8Word-by-word available

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः । सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ।।3.19.8।।

Meaning

Shloka 19.9Word-by-word available

निहतस्य मया सङ्ख्ये शरसङ्कृत्तमर्मणः । सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ।।3.19.9।।

Meaning

Shloka 19.10Word-by-word available

कस्य पत्ररथाः कायान्मांसमुत्कृत्य सङ्गताः । प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ।।3.19.10।।

Meaning