Sarga 45: Sītā's Harsh Words
सीतापारुष्यम्
sītāpāruṣyam — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ।।3.45.1।।
Meaning
न हि मे हृदयं स्थाने जीवितं वाऽवतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ।।3.45.2।।
Meaning
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ।।3.45.3।।
Meaning
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ।।3.45.4।।
Meaning
तमुवाच ततस्तत्र कुपिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ।।3.45.5।।
Meaning
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे । इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।।3.45.6।।
Meaning
लोभान्मम कृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ।।3.45.7।।
Meaning
तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ।।3.45.8।।
Meaning
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम् ।।3.45.9।।
Meaning
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवमानुषराक्षसैः ।।3.45.10।।
Meaning