Sarga 25: Khara's Army Crushed
खरसैन्यावमर्दः
kharasainyāvamardaḥ — word-by-word gloss for all 47 shlokas.
Jump to a shloka · 47 in this sarga
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरःसरैः ।।3.25.1।।
Meaning
तं दृष्ट्वा सशरं चापमुद्यम्य खरनिःस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ।।3.25.2।।
Meaning
स खरस्याज्ञया सूतस्तुरगान् समचोदयत् । यत्र रामो महाबाहुरेको धुन्वन् स्थितो धनुः ।।3.25.3।।
Meaning
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः । नर्दमाना महानादं सचिवाः पर्यवारयन् ।।3.25.4।।
Meaning
स तेषां यातुधानानां मध्ये रथगतः खरः । बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ।।3.25.5।।
Meaning
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः ।।3.25.6।।
Meaning
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ।।3.25.7।।
Meaning
मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे रामं निजघ्नू रोषतत्पराः ।।3.25.8।।
Meaning
ते बलाहकसङ्काशा महानादा महौजसः । अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ।।3.25.9।।
Meaning
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः । ते रामे शरवर्षाणि व्यसृजन्रक्षसां गणाः ।।3.25.10।।
Meaning