Sarga 21: Khara Incited
खरसन्धुक्षणम्
kharasandhukṣaṇam — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ।।3.21.1।।
Meaning
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ।।3.21.2।।
Meaning
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ।।3.21.3।।
Meaning
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः । हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ।।3.21.4।।
Meaning
अनाथवद्विलपसि नाथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लब्यं त्यज्यतामिह ।।3.21.5।।
Meaning
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ।।3.21.6।।
Meaning
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका । शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ।।3.21.7।।
Meaning
प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश । निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ।।3.21.8।।
Meaning
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ।।3.21.9।।
Meaning
तान् दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान् । रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ।।3.21.10।।
Meaning