Sarga 21: Khara Incited
खरसन्धुक्षणम्
kharasandhukṣaṇam — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
अहमस्मि समुद्विग्ना विषण्णा च निशाचर । शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ।।3.21.11।।
Meaning
विषादनक्राध्युषिते परित्रासोर्मिमालिने । किं मां न त्रायसे मग्नां विपुले शोकसागरे ।।3.21.12।।
Meaning
एते च निहता भूमौ रामेण निशितैः शरैः । येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ।।3.21.13।।
Meaning
मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु च । रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।।3.21.14।।
Meaning
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् । यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ।।3.21.15।।
Meaning
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा । बुद्ध्याहम् अनुपश्यामि न त्वं रामस्य सम्युगे ।।3.21.16।।
Meaning
स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः । शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ।।3.21.17।।
Meaning
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ । रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर ।।3.21.18।।
Meaning
दण्डकारण्यनिलयं जहि तं कुलपांसन । निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ।।3.21.19।।
Meaning
अपयाहि जनस्थानात्त्वरितः सहबान्धवः । रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ।।3.21.20।।
Meaning