Sarga 8: Leave of Sutīkṣṇa
सुतीक्ष्णाभ्यनुज्ञा
sutīkṣṇābhyanujñā — word-by-word gloss for all 20 shlokas.
Jump to a shloka · 20 in this sarga
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ।।3.8.1।।
Meaning
उत्थाय तु यथाकालं राघवः सह सीतया । उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ।।3.8.2।।
Meaning
अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ । काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने ।।3.8.3।।
Meaning
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः । सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन् ।।3.8.4।।
Meaning
सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः । आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ।।3.8.5।।
Meaning
त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम् । ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ।।3.8.6।।
Meaning
अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः । धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ।।3.8.7।।
Meaning
अविषह्यातपो यावत्सूर्यो नातिविराजते । अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ।।3.8.8।।
Meaning
तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः । ववन्दे सह सौमित्रिः सीतया सह राघवः ।।3.8.9।।
Meaning
तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः । गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत् ।।3.8.10।।
Meaning