Sarga 42: Sight of the Golden Deer

स्वर्णमृगप्रेक्षणम्

svarṇamṛgaprekṣaṇam — word-by-word gloss for all 35 shlokas.

Page 1 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 42.1Word-by-word available

एवमुक्त्वा तु वचनं मारीचो रावणं ततः । गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः ।।3.42.1।।

Meaning

Shloka 42.2Word-by-word available

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा । मद्वधोद्यतशस्त्रेण विनष्टं जीवितं च मे ।।3.42.2।।

Meaning

Shloka 42.3Word-by-word available

न हि रामं पराक्रम्य जीवन्प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ।।3.42.3।।

Meaning

Shloka 42.4Word-by-word available

किं नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ।।3.42.4।।

Meaning

Shloka 42.5Word-by-word available

प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः । परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ।।3.42.5।।

Meaning

Shloka 42.6Word-by-word available

एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् । इदानीमसि मारीचः पूर्वमन्यो निशाचरः ।।3.42.6।।

Meaning

Shloka 42.7Word-by-word available

आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः । मया सह तथा युक्तः पिशाचवदनैः खरैः ।।3.42.7।।

Meaning

Shloka 42.8Word-by-word available

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ।।3.42.8।।

Meaning

Shloka 42.9Word-by-word available

ततो रावणमारीचौ विमानमिव तं रथम् । आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात् ।।3.42.9।।

Meaning

Shloka 42.10Word-by-word available

तथैव तत्र पश्यन्तौ पत्तनानि वनानि च । गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ।।3.42.10।।

Meaning