Sarga 2: Virādha Blocks the Way
विराधसंरोधः
virādhasaṃrodhaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति । आमन्त्र्य स मुनीन्सर्वान्वनमेवान्वगाहत ।।3.2.1।।
Meaning
नानामृगगणाकीर्णं शार्दूलवृकसेवितम् । ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ।।3.2.2।।
Meaning
निष्कूजनानाशकुनि झिल्लिकागणनादितम् । लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ।।3.2.3।।
Meaning
वनमध्ये तु काकुत्स्थस्तस्मिन्घोरमृगायुते । ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ।।3.2.4।।
Meaning
गम्भीराक्षं महावक्त्रं विकटं विषमोदरम् । बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम् ।।3.2.5।।
Meaning
वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ।।3.2.6।।
Meaning
त्रीन्सिंहांश्चतुरो व्याघ्रान्द्वौ वृषौ पृषतान्दश । सविषाणं वसादिग्धं गजस्य च शिरो महत् ।।3.2.7।।
Meaning
अवसज्यायसे शूले विनदन्तं महास्वनम् । स रामं लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम् ।।3.2.8।।
Meaning
अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः । स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् ।।3.2.9।।
Meaning
अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत् । युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ ।।3.2.10।।
Meaning