Sarga 55: Rāvaṇa Tries to Tempt Sītā
सीताविलोभनोद्यमः
sītāvilobhanodyamaḥ — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
सन्दिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यममन्यत ।।3.55.1।।
Meaning
स चिन्तयानो वैदेहीं कामबाणसमर्पितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ।।3.55.2।।
Meaning
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् ।।3.55.3।।
Meaning
अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् । वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ।।3.55.4।।
Meaning
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् । अधोमुखमुखीं सीतामभ्येत्य च निशाचरः ।।3.55.5।।
Meaning
तां तु शोकपरां दीनामवशां राक्षसाधिपः । स बलाद्दर्शयामास गृहं देवगृहोपमम् ।।3.55.6।।
Meaning
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ।।3.55.7।।
Meaning
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि । वज्रवैडूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः ।।3.55.8।।
Meaning
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह ।।3.55.9।।
Meaning
दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ।।3.55.10।।
Meaning