Sarga 71: The Tale of Kabandha's Curse
कबन्धशापाख्यानम्
kabandhaśāpākhyānam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
पुरा राम महाबाहो महाबलपराक्रमम् । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् ।।3.71.1।।
Meaning
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः । सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत् ।।3.71.2।।
Meaning
ऋषीन्वनगतान् राम त्रासयामि ततस्ततः । ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।।3.71.3।।
Meaning
सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः । तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना ।।3.71.4।।
Meaning
एतदेव नृशंसं ते रूपमस्तु विगर्हितम् । स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति ।।3.71.5।।
Meaning
अभिशापकृतस्येति तेनेदं भाषितं वचः । यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने ।।3.71.6।।
Meaning
तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम् । श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।।3.71.7।।
Meaning
इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे । अहं हि तपसोग्रेण पितामहमतोषयम् ।।3.71.8।।
Meaning
दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत् । दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति ।।3.71.9।।
Meaning
इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् । तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा ।।3.71.10।।
Meaning