Sarga 4: Virādha Buried
विराधनिखननम्
virādhanikhananam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
ह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । उच्चैःस्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ।।3.4.1।।
Meaning
एष दाशरथी रामः सत्यवान् शीलवान् शुचिः । रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ।।3.4.2।।
Meaning
मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ।।3.4.3।।
Meaning
तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ।।3.4.4।।
Meaning
तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह । रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ।।3.4.5।।
Meaning
स भग्नबाहुः संविग्नो निपपाताशु राक्षसः । धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ।।3.4.6।।
Meaning
मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् । उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ।।3.4.7।।
Meaning
स विद्धो बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ।।3.4.8।।
Meaning
तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ।।3.4.9।।
Meaning
तपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते । शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ।।3.4.10।।
Meaning