Sarga 6: The Vow to Slay the Rākṣasas

रक्षोवधप्रतिज्ञानम्

rakṣovadhapratijñānam — word-by-word gloss for all 26 shlokas.

Jump to a shloka · 26 in this sarga

Page 1 of 326 shlokas in this sarga (verified max-across-sources)
Shloka 6.1Word-by-word available

शरभङ्गे दिवं याते मुनिसङ्घाः समागताः । अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।।3.6.1।।

Meaning

Shloka 6.2Word-by-word available

वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः ।।3.6.2।।

Meaning

Shloka 6.3Word-by-word available

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे । गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ।।3.6.3।।

Meaning

Shloka 6.4Word-by-word available

मुनयः सलिलाहारा वायुभक्षास्तथापरे । आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः ।।3.6.4।।

Meaning

Shloka 6.5Word-by-word available

व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः । सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः ।।3.6.5।।

Meaning

Shloka 6.6Word-by-word available

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगाः समाहिताः । शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ।।3.6.6।।

Meaning

Shloka 6.7Word-by-word available

अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् । ऊचुः परमधर्मज्ञमृषिसङ्घाः समाहिताः ।।3.6.7।।

Meaning

Shloka 6.8Word-by-word available

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्चासि नाथश्च देवानां मघवानिव ।।3.6.8।।

Meaning

Shloka 6.9Word-by-word available

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च । पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ।।3.6.9।।

Meaning

Shloka 6.10Word-by-word available

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि ।।3.6.10।।

Meaning