Sarga 13: Journey to Pañcavaṭī

पञ्चवटीगमनम्

pañcavaṭīgamanam — word-by-word gloss for all 28 shlokas.

Jump to a shloka · 28 in this sarga

Page 1 of 328 shlokas in this sarga (verified max-across-sources)
Shloka 13.1Word-by-word available

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ।।3.13.1।।

Meaning

Shloka 13.2Word-by-word available

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ।।3.13.2।।

Meaning

Shloka 13.3Word-by-word available

एषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ।।3.13.3।।

Meaning

Shloka 13.4Word-by-word available

यथैषा रमते राम इह सीता तथा कुरु । दुष्करं कृतवत्येषा वने त्वामनुगच्छती ।।3.13.4।।

Meaning

Shloka 13.5Word-by-word available

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । समस्थमनुरज्यन्ति विषमस्थं त्यज्यन्ति च ।।3.13.5।।

Meaning

Shloka 13.6Word-by-word available

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः ।।3.13.6।।

Meaning

Shloka 13.7Word-by-word available

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ।।3.13.7।।

Meaning

Shloka 13.8Word-by-word available

अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ।।3.13.8।।

Meaning

Shloka 13.9Word-by-word available

एवमुक्तः स मुनिना राघवः सम्यताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ।।3.13.9।।

Meaning

Shloka 13.10Word-by-word available

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः । गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ।।3.13.10।।

Meaning