Sarga 72: How Sītā May Be Found
सीताधिगमोपायः
sītādhigamopāyaḥ — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिप्रदरमासाद्य पावकं विससर्जतुः ।।3.72.1।।
Meaning
लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः । चितामादीपयामास सा प्रजज्वाल सर्वतः ।।3.72.2।।
Meaning
तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पच्यमानस्य मन्दं दहति पावकः ।।3.72.3।।
Meaning
स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः । अरजे वाससी बिभ्रन्मालां दिव्यां महाबलः ।।3.72.4।।
Meaning
ततश्चिताया वेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ।।3.72.5।।
Meaning
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे । प्रभया च महातेजा दिशो दश विराजयन् ।।3.72.6।।
Meaning
सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ।।3.72.7।।
Meaning
राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते । परिमृष्टो दशान्तेन दशाभागेन सेव्यते ।।3.72.8।।
Meaning
दशाभागगतो हीनस्त्वं हि राम सलक्ष्मणः । यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ।।3.72.9।।
Meaning
तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर । अकृत्वा हि न ते सिद्धिमहं पश्यामि चिन्तयन् ।।3.72.10।।
Meaning