Sarga 16: Winter Described
हेमन्तवर्णनम्
hemantavarṇanam — word-by-word gloss for all 43 shlokas.
Jump to a shloka · 43 in this sarga
वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ।।3.16.1।।
Meaning
स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः । प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ।।3.16.2।।
Meaning
प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् । पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् ।।3.16.3।।
Meaning
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद । अलङ्कृत इवाभाति येन संवत्सरः शुभः ।।3.16.4।।
Meaning
नीहारपरुषो लोकः पृथिवी सस्यशालिनी । जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ।।3.16.5।।
Meaning
नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः । कृताग्रयणकाः काले सन्तो विगतकल्मषाः ।।3.16.6।।
Meaning
प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः । विचरन्ति महीपाला यात्रास्था विजिगीषवः ।।3.16.7।।
Meaning
सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ।।3.16.8।।
Meaning
प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम् । यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः ।।3.16.9।।
Meaning
अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः । दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ।।3.16.10।।
Meaning