Sarga 68: Jaṭāyu's Funeral
जटायुःसंस्कारः
jaṭāyuḥsaṃskāraḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
रामः सम्प्रेक्ष्य तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ।।3.68.1।।
Meaning
ममायं नूनमर्थेषु यतमानो विहङ्गमः । राक्षसेन हतः सङ्ख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान् ।।3.68.2।।
Meaning
अयमस्य शरीरेऽस्मिन्प्राणो लक्ष्मण विद्यते । तथाहि स्वरहीनोऽयं विक्लवः समुदीक्षते ।।3.68.3।।
Meaning
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ।।3.68.4।।
Meaning
किं निमित्तोऽहरत्सीतां रावणस्तस्य किं मया । अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ।।3.68.5।।
Meaning
कथं तच्चन्द्रसङ्काशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ।।3.68.6।।
Meaning
कथं वीर्यः कथं रूपः किं कर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ।।3.68.7।।
Meaning
तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम् । वाचातिसन्नया रामं जटायुरिदमब्रवीत् ।।3.68.8।।
Meaning
हृता सा राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय विपुलां वातदुर्दिनसङ्कुलाम् ।।3.68.9।।
Meaning
परिश्रान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः । सीतामादाय वैदेहीं प्रयातो दक्षिणां दिशम् ।।3.68.10।।
Meaning