Sarga 11: Agastya's Hermitage

अगस्त्याश्रमः

agastyāśramaḥ — word-by-word gloss for all 95 shlokas.

Page 1 of 1095 shlokas in this sarga (verified max-across-sources)
Shloka 11.1Word-by-word available

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ।।3.11.1।।

Meaning

Shloka 11.2Word-by-word available

तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च । नदीश्च विविधा रम्या जग्मतुः सीतया सह ।।3.11.2।।

Meaning

Shloka 11.3Word-by-word available

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः । सरांसि च सपद्मानि युक्तानि जलजैः खगैः ।।3.11.3।।

Meaning

Shloka 11.4Word-by-word available

यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः । महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ।।3.11.4।।

Meaning

Shloka 11.5Word-by-word available

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ।।3.11.5।।

Meaning

Shloka 11.6Word-by-word available

पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् । सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः ।।3.11.6।।

Meaning

Shloka 11.7Word-by-word available

प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे । गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ।।3.11.7।।

Meaning

Shloka 11.8Word-by-word available

ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः । मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ।।3.11.8।।

Meaning

Shloka 11.9Word-by-word available

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने । कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ।।3.11.9।।

Meaning

Shloka 11.10Word-by-word available

वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो । तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ।।3.11.10।।

Meaning