Sarga 28: Khara and Rāma Clash
खररामसम्प्रहारः
khararāmasamprahāraḥ — word-by-word gloss for all 33 shlokas.
Jump to a shloka · 33 in this sarga
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । खरस्याप्यभवत्रासो दृष्ट्वा रामस्य विक्रमम् ।।3.28.1।।
Meaning
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण त्रिशिरोदूषणावपि ।।3.28.2।।
Meaning
तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा ।।3.28.3।।
Meaning
विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ।।3.28.4।।
Meaning
ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चकार समरे मार्गान् शरै रथगतः खरः ।।3.28.5।।
Meaning
स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ।।3.28.6।।
Meaning
स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ।।3.28.7।।
Meaning
तद्बभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ।।3.28.8।।
Meaning
शरजालावृतः सूर्यो न तदा स्म प्रकाशते । अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः ।।3.28.9।।
Meaning
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । आजघान खरो रामं तोत्रैरिव महाद्विपम् ।।3.28.10।।
Meaning