Sarga 26: Dūṣaṇa and Others Slain

दूषणादिवधः

dūṣaṇādivadhaḥ — word-by-word gloss for all 38 shlokas.

Page 1 of 438 shlokas in this sarga (verified max-across-sources)
Shloka 26.1Word-by-word available

दूषणस्तु स्वकं सैन्यं हन्यमानं निरीक्ष्य सः । सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान् ।।3.26.1।।

Meaning

Shloka 26.2Word-by-word available

राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि ।।3.26.2।।

Meaning

Shloka 26.3Word-by-word available

शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः । स द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।।3.26.3।।

Meaning

Shloka 26.4Word-by-word available

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद्वर्षं निमीलित इवर्षभः ।।3.26.4।।

Meaning

Shloka 26.5Word-by-word available

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ।।3.26.5।।

Meaning

Shloka 26.6Word-by-word available

शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ।।3.26.6।।

Meaning

Shloka 26.7Word-by-word available

शरैरशनिकल्पैस्तं राघवं समवाकिरत् । ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः ।।3.26.7।।

Meaning

Shloka 26.8Word-by-word available

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् । हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ।।3.26.8।।

Meaning

Shloka 26.9Word-by-word available

शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।।3.26.9।।

Meaning

Shloka 26.10Word-by-word available

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम् ।।3.26.10।।

Meaning