Sarga 33: Rāvaṇa Reproached
रावणनिन्दा
rāvaṇanindā — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत् ।।3.33.1।।
Meaning
प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः । समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ।।3.33.2।।
Meaning
सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः ।।3.33.3।।
Meaning
स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ।।3.33.4।।
Meaning
अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम् । वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः ।।3.33.5।।
Meaning
ये न रक्षन्ति विषयमस्वाधीना नराधिपः । ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा ।।3.33.6।।
Meaning
आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः । अयुक्तचारश्चपलः कथं राजा भविष्यसि ।।3.33.7।।
Meaning
त्वं तु बालस्वभावच्च बुद्धिहीनश्च राक्षस । ज्ञातव्यं तु न जानीषे कथं राजा भविष्यसि ।।3.33.8।।
Meaning
येषां चारश्च कोशश्च नयश्च जयतां वर । अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः ।।3.33.9।।
Meaning
यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः । चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः ।।3.33.10।।
Meaning