Sarga 5: Śarabhaṅga Departs for Brahmā's World
शरभङ्गब्रह्मलोकप्रस्थानम्
śarabhaṅgabrahmalokaprasthānam — word-by-word gloss for all 44 shlokas.
Jump to a shloka · 44 in this sarga
हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।।3.5.1।।
Meaning
अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम् । कष्टं वनमिदं दुर्गं न च स्म वनगोचराः ।।3.5.2।।
Meaning
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम् । आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ।।3.5.3।।
Meaning
तस्य देवप्रभावस्य तपसा भावितात्मनः । समीपे शरभङ्गस्य ददर्श महदद्भुतम् ।।3.5.4।।
Meaning
विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् । अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् ।।3.5.5।।
Meaning
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् । सुप्रभाभरणं देवं विरजोम्बरधारिणम् ।।3.5.6।।
Meaning
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः । हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।।3.5.7।।
Meaning
ददर्शादूरतस्तस्य तरुणादित्यसन्निभम् । पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम् ।।3.5.8।।
Meaning
अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् । चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ।।3.5.9।।
Meaning
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि । गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ।।3.5.10।।
Meaning