Sarga 12: Meeting Agastya

अगस्त्यदर्शनम्

agastyadarśanam — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 12.1Word-by-word available

स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः । अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ।।3.12.1।।

Meaning

Shloka 12.2Word-by-word available

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली । रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ।।3.12.2।।

Meaning

Shloka 12.3Word-by-word available

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ।।3.12.3।।

Meaning

Shloka 12.4Word-by-word available

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात् । द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ।।3.12.4।।

Meaning

Shloka 12.5Word-by-word available

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम् ।।3.12.5।।

Meaning

Shloka 12.6Word-by-word available

स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा ।।3.12.6।।

Meaning

Shloka 12.7Word-by-word available

यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः । पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।।3.12.7।।

Meaning

Shloka 12.8Word-by-word available

प्रविष्टावाश्रमपदं सीतया सह भार्यया । द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ ।।3.12.8।।

Meaning

Shloka 12.9Word-by-word available

यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि । ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।।3.12.9।।

Meaning

Shloka 12.10Word-by-word available

वैदेहीं च महाभागामिदं वचनमब्रवीत् । दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः ।।3.12.10।।

Meaning