Sarga 73: The Way to Ṛśyamūka
ऋश्यमूकमार्गकथनम्
ṛśyamūkamārgakathanam — word-by-word gloss for all 46 shlokas.
Jump to a shloka · 46 in this sarga
निदर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ।।3.73.1।।
Meaning
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः । प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ।।3.73.2।।
Meaning
जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ।।3.73.3।।
Meaning
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ।।3.73.4।।
Meaning
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः । तानारूह्याथवा भूमौ पातयित्वा च तान् बलात् ।।3.73.5।।
Meaning
फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः । तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ।।3.73.6।।
Meaning
नन्दनप्रतिमं चान्यत् कुरवो ह्युत्तरा इव । सर्वकामफला वृक्षाः पादपास्तु मधुस्रवाः ।।3.73.7।।
Meaning
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा । फलभारानतास्तत्र महाविटपधारिणः ।।3.73.8।।
Meaning
शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः । तानारुह्याथ वा भूमौ पातयित्वा यथासुखम् ।।3.73.9।।
Meaning
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति । चङ्क्रमन्तौ वरान् देशान् शैलाच्छैलं वनाद्वनम् ।।3.73.10।।
Meaning