Sarga 57: Rāma Turns Back

रामप्रत्यागमनम्

rāmapratyāgamanam — word-by-word gloss for all 24 shlokas.

Jump to a shloka · 24 in this sarga

Page 1 of 324 shlokas in this sarga (verified max-across-sources)
Shloka 57.1Word-by-word available

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्णं पथि निवर्तते ।।3.57.1।।

Meaning

Shloka 57.2Word-by-word available

तस्य सन्त्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ।।3.57.2।।

Meaning

Shloka 57.3Word-by-word available

स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् । चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ।।3.57.3।।

Meaning

Shloka 57.4Word-by-word available

अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा । स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ।।3.57.4।।

Meaning

Shloka 57.5Word-by-word available

मारीचेन तु विज्ञाय स्वरमालम्ब्य मामकम् । विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि ।।3.57.5।।

Meaning

Shloka 57.6Word-by-word available

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वा च मैथिलीम् । तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ।।3.57.6।।

Meaning

Shloka 57.7Word-by-word available

राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः । काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ।।3.57.7।।

Meaning

Shloka 57.8Word-by-word available

दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः । हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार च ।।3.57.8।।

Meaning

Shloka 57.9Word-by-word available

अपि स्वस्ति भवेत्ताभ्यां रहिताभ्यां महावने । जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ।।3.57.9।।

Meaning

Shloka 57.10Word-by-word available

निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च । इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ।।3.57.10।।

Meaning